|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.41. अध्यायः 041
Mahabharata - Udyoga Parva - Chapter Topics
धृतराष्ट्रेण पुनर्धर्मरहस्यकथनं चोदितेन विदुरेण स्वस्य शूद्रयोनिजातत्वेन तत्कथनानौचित्यकथनम् ॥ 1 ॥ तथा स्मरण मात्रसंनिहितं सनत्सुजातंप्रति धृतराष्ट्राय तत्वोपदेशप्रार्थना ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
धृतराष्ट्र उवाच। 5-41-0x(3498)(33319)
अनुक्तं यदि ते किञ्चिद्वाचा विदुर विद्यते।
तन्मे शुश्रूषतो ब्रूहि विचित्राणि हि भाषसे ॥ 5-41-1(33320)
विदुर उवाच। 5-41-2x(3499)
धृतराष्ट्र कुमारो वै यः पुराणः सनातनः।
तनत्सुजातः प्रोवाच मृत्युर्नास्तीति भारत ॥ 5-41-2(33321)
स ते गुह्यान्प्रकाशांश्च सर्वान्हृदयसंश्रयान्।
प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः ॥ 5-41-3(33322)
धृतराष्ट्र उवाच। 5-41-4x(3500)
किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः।
त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति चेत्तव ॥ 5-41-4(33323)
विदुर उवाच। 5-41-5x(3501)
शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे।
कुमारस्य तु याबुद्धिर्वेद तां शाश्वतीमहम् ॥ 5-41-5(33324)
ब्राह्मीं हि योनिमापन्नः सगुह्यमपि यो वदेत्।
न तेन गर्ह्यो देवानां तस्मादेतद्ब्रवीमि ते ॥ 5-41-6(33325)
धृतराष्ट्र उवाच। 5-41-7x(3502)
ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम् ।
कथमेतेन देहेन स्यादिहैव समागमः ॥ 5-41-7(33326)
वैशम्पायन उवाच। 5-41-8x(3503)
चिन्तयामास विदुरस्तभृषिं शंसितव्रतम्।
स च तच्चिन्तितं ज्ञात्वा दर्शयामास भारत ॥ 5-41-8(33327)
स चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा ।
सुखोपविष्टं विश्रान्तमथैनं विदुरोऽब्रवीत्॥ 5-41-9(33328)
भगवन्संशयः कश्चिद्धृतराष्ट्रस्य मानसः ।
यो न शक्यो मया वक्तुं त्वमस्मै वक्तुमर्हसि ॥ 5-41-10(33329)
यं श्रत्वाऽयं मनुष्येन्द्रः सर्वदुःखातिगो भवेत्॥ 5-41-11(33330)
लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ।
विषहेरन्भयामर्षौ श्रुत्पिपासे मदोद्भवौ ।
अरतिश्चैव तन्द्री च कामक्रोधौ क्षयोदयौ ॥ ॥ 5-41-12(33331)
इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि एकचत्वारिंशोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-41-2 सनुत्कुम्मरः प्रोवाचेति कo पाठः ॥ 5-41-4 तमहं नाभिजानामि तत्वतो वै सनातनमिति कo पाठo ॥ 5-41-12 विषहेरन् बाधेरन्। अमर्षः असहिष्णुता । उद्भव उत्कृष्टैश्वर्यं ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|